मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५३, ऋक् ८

संहिता

अश्म॑न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः ।
अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥

पदपाठः

अश्म॑न्ऽवती । री॒य॒ते॒ । सम् । र॒भ॒ध्व॒म् । उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒यः॒ ।
अत्र॑ । ज॒हा॒म॒ । ये । अस॑न् । अशे॑वाः । शि॒वान् । व॒यम् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥

सायणभाष्यम्

वैवाहिके प्रयाणे यदि नावा तार्या नदी स्यात् तदानीमश्मन्वतीत्यर्धर्चेन वधूं नावामारोहयेत् उत्तरेणार्धर्चेन नदीमुत्क्रमयेत्। सूत्रितं च। अश्मन्वती रीयते सं रभध्वमित्यर्धर्चेन नावमारोहयेदुत्तरेणोत्क्रमयेत्। आ. गृ. १-८-२, ३। इति॥

अनयापि देवा यज्ञजिगमिषवः परस्परं ब्रुवते। अश्मन्वती नाम नदी रीयते। गच्छति। री गतिरेषणयोः। तां यज्ञगमनायोत्तरीतुमुत्तिष्ठत। उद्गच्छत। तथा कृत्वा प्रतरत। तां नदीमुल्लङ्घयत। हे सखायो यजमानस्य सखि भूता इति देवानां सम्बोधनम् । अत्रास्यां नद्यां जहाम। परित्यजाम। कानिति उच्यते। येऽशेवाः। शेवमिति सुखनाम। येऽसुखभूता आसन् अभवन् अस्मानाश्रित्य वर्तन्ते ताञ्जहाम। तथा कृत्वा शिवान् सुखकराणि वाजानन्नानि हवींष्यभिप्राप्तुमुत्तरेम॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४