मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५४, ऋक् २

संहिता

यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नीन्द्र प्रब्रुवा॒णो जने॑षु ।
मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से ॥

पदपाठः

यत् । अच॑रः । त॒न्वा॑ । व॒वृ॒धा॒नः । बला॑नि । इ॒न्द्र॒ । प्र॒ऽब्रु॒वा॒णः । जने॑षु ।
मा॒या । इत् । सा । ते॒ । यानि॑ । यु॒द्धानि॑ । आ॒हुः । न । अ॒द्य । शत्रु॑म् । न॒नु । पु॒रा । वि॒वि॒त्से॒ ॥

सायणभाष्यम्

हे इन्द्र तन्वा शरीरेण स्तोत्रेण वा वावृधानो वर्धमानो जनेषु प्राणिषु बलानि प्रब्रुवाणो वृत्रवधादिरूपाणि सामर्थ्यानि प्रकर्षेण कथयन्नचर इति यत्सञ्चारं कृतवानिति यदस्ति ते तव सा गतिर्मायेन्मायैव। म्रुषेयर्थः। किञ्च यानि युद्धानि शत्रुविषयाण्याहुः ब्रुवते पुराविद ऋषयः तान्यपि मायैव। कुत इति आह। अद्येदानीं शत्रुं हन्तव्यं न विवित्से। न लभसे। अद्य मा भुत् पूर्वं हतवानस्मीति यद्बृषे तदपि नेत्याह। नन्विति प्रश्ने। किं पुरा शत्रुमलभथाः। तदपि नेत्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५