मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५४, ऋक् ६

संहिता

यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि ।
अध॑ प्रि॒यं शू॒षमिन्द्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥

पदपाठः

यः । अद॑धात् । ज्योति॑षि । ज्योतिः॑ । अ॒न्तः । यः । असृ॑जत् । मधु॑ना । सम् । मधू॑नि ।
अध॑ । प्रि॒यम् । शू॒षम् । इन्द्रा॑य । मन्म॑ । ब्र॒ह्म॒ऽकृतः॑ । बृ॒हत्ऽउ॑क्थात् । अ॒वा॒चि॒ ॥

सायणभाष्यम्

य इन्द्रो ज्योतिषि द्योतमान आदित्यादिके तेजस्यन्तर्ज्योतिस्तेजोऽदधात् धारितवान्। यदादित्याग्न्यादिषु तेजोऽस्ति तदिन्द्रकृतमित्यर्थः। यश्च मधुना मधुरेण रसेन मधूनि सोमादिमधुद्रव्याणि समसृजत् समयोजयत्। यद्वा। मधुना। अत्र मधुशब्देन सर्वैः सेव्यमान आदित्य उच्यते। तेन सह मधून्युदकानि समसृजत्। अध सम्प्रति तस्मा इन्द्राय प्रियं प्रीतिजनकं शूषं बलं शत्रूणां शोषकत्वाद्बलकरं मन्म मननीयं स्तोत्रं ब्रह्मकैतो मन्त्रकृतो बृहदुक्थात् प्रभूतशस्त्रयुक्तादेतन्नामकादृषेर्मत्तोऽवाचि। उक्तमभूत्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५