मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५९, ऋक् ३

संहिता

अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् ।
ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निरृ॑तिर्जिहीताम् ॥

पदपाठः

अ॒भि । सु । अ॒र्यः । पौंस्यैः॑ । भ॒वे॒म॒ । द्यौः । न । भूमि॑म् । गि॒रयः॑ । न । अज्रा॑न् ।
ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । चि॒के॒त॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥

सायणभाष्यम्

वयमर्योऽरीञ्शत्रून्पौंस्यैः पुंस्त्वैर्बलैः सु सुष्ठ्वभिभवेम। दौर्नभूमिं सूर्यो यथा स्वरश्मिभिर्भूमिमभिभवति तद्वत्। गिरयो नाज्रान्। गिरिर्वज्रः। ते यथाज्रानजनशीलान्मेघानभिभवन्ति तद्वत्। ता तानि यानि न्ऽस्माभिः कृतानि स्तोत्राणि तानि विश्वानि सर्वाणि जरिता स्तुता सती निरृतिश्चिकेत। जानाति। शिष्टमुक्तम्॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२