मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५९, ऋक् ५

संहिता

असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयु॑ः ।
रा॒र॒न्धि न॒ः सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥

पदपाठः

असु॑ऽनीते । मनः॑ । अ॒स्मासु॑ । धा॒र॒य॒ । जी॒वात॑वे । सु । प्र । ति॒र॒ । नः॒ । आयुः॑ ।
र॒र॒न्धि । नः॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । घृ॒तेन॑ । त्वम् । त॒न्व॑म् । व॒र्ध॒य॒स्व॒ ॥

सायणभाष्यम्

हे असुनीते मनुष्याणामसूनां नेत्रि देवि अस्मासु मनः पुनर्धारय। किञ्च जीवातवे जीवितुं सु प्र तिर सुष्ठु वर्धय नोऽस्माकमायुः। किञ्च रारन्धि स्थापय नोऽस्मान् सूर्यस्य संदृशि चिरसन्दर्शने। त्व च घृतेनास्माभिर्दत्तेन तन्वं शरीरं वर्धय। वर्धयस्व॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२