मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५९, ऋक् ६

संहिता

असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒ः पुनः॑ प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥

पदपाठः

असु॑ऽनीते । पुनः॑ । अ॒स्मासु॑ । चक्षुः॑ । पुन॒रिति॑ । प्रा॒णम् । इ॒ह । नः॒ । धे॒हि॒ । भोग॑म् ।
ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् । उ॒त्ऽचर॑न्तम् । अनु॑ऽमते । मृ॒ळय॑ । नः॒ । स्व॒स्ति ॥

सायणभाष्यम्

हे असुनीते प्राणदायिनि देवि अस्मासु। अस्मदीये सुबन्धावित्यर्थः। पुनश्चक्षुः प्रकाशकं नयनम् । ईक्षणसामर्थ्यमित्यर्थः। किञ्च पुनः प्रानमस्मासुधेहि। स्थापय। वयं च ज्योक्चिरमुच्चरन्तमुद्गच्छन्तं सूर्यं पश्येम। हे अनुमते देवि स्वस्त्यविनाशं यथा स्यात्तथा नोऽस्मान्मृळय। सुखय॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३