अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा ।क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥
अव॑ । द्व॒के इति॑ । अव॑ । त्रि॒का । दि॒वः । च॒र॒न्ति॒ । भे॒ष॒जा ।
क्ष॒मा । च॒रि॒ष्णु । ए॒क॒कम् । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥
दिवो द्युलोकाद्भेषजा भेषजानि द्वके द्विकं त्रिका त्रिकं चाव चरन्ति। अत्राश्विनौ द्विकमवचरतः। इळा सरस्वती भारती त्रिकमवचरन्ति। क्षमा क्षमायां चरिष्णु चरत्येककमेकं भेषजमित्यभिप्रायमाह। तानि सर्वाणि सुबन्धो प्राणं क्षन्त्विति शेशः॥९॥