अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ॑म् ।
भ॒जेर॑थस्य॒ सत्प॑तिम् ॥
अस॑मातिम् । नि॒ऽतोश॑नम् । त्वे॒षम् । नि॒ऽय॒यिन॑म् । रथ॑म् ।
भ॒जेऽर॑थस्य । सत्ऽप॑तिम् ॥
असमातिं राजानं नितोशनं शत्रूणां हन्तारम्। नितोशतिर्वधकर्मा। त्वेशम् दीप्तं। निययिनं रथमित्युपमाप्रधानो निर्देशः। रथवत्सर्वाभिमतप्राप्तिसाधनं भजेरथस्यैतन्नामकस्य राज्ञो वंशे जातं। यद्वा। एतन्नाम कश्चिदस्य शत्रुः। तस्य निययिनं। हलदन्तान्। पा. ६-३-९। इति सप्तम्या अलुक्। सत्पतिं सतां पालकम्॥२॥