मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६०, ऋक् ६

संहिता

अ॒गस्त्य॑स्य॒ नद्भ्य॒ः सप्ती॑ युनक्षि॒ रोहि॑ता ।
प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धसः॑ ॥

पदपाठः

अ॒गस्त्य॑स्य । नत्ऽभ्यः॑ । सप्ती॒ इति॑ । यु॒न॒क्षि॒ । रोहि॑ता ।
प॒णीन् । नि । अ॒क्र॒मीः॒ । अ॒भि । विश्वा॑न् । रा॒ज॒न् । अ॒रा॒धसः॑ ॥

सायणभाष्यम्

अनयागस्त्यस्य स्वसा बम्भ्वादीनां माता राजानम् स्तौति। हे राजन्नसमाते त्वमगस्त्यस्यर्षेर्नद्भ्यो नन्दयितृभ्यो बन्ध्वादिभ्यो निमित्तभुतेभ्येस्तेषां धनप्राप्तये सप्ती सर्पण स्वभावावश्वौ रोहिता तोहितवर्णौ युनक्षि। योजय रथे। तथा कृत्वा विश्वान् सर्वानराधसोऽदातृनयजमानान्पणीन्वणिजो लुब्धकान्निकृष्टं नितरां वाभ्यक्रमीः। अभिभव॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४