मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६०, ऋक् १०

संहिता

य॒माद॒हं वै॑वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् ।
जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

पदपाठः

य॒मात् । अ॒हम् । वै॒व॒स्व॒तात् । सु॒ऽबन्धोः॑ । मनः॑ । आ । अ॒भ॒र॒म् ।
जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥

सायणभाष्यम्

इयं निगदसिद्धा॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५