मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् ७

संहिता

पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि॑ञ्चत् ।
स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥

पदपाठः

पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् ।
सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥

सायणभाष्यम्

पिता प्रजापतिर्यद्यदा स्वां दुहितरं दिवमुशं वाधिष्कन् अध्यस्कन्दत् तदानीमेव क्ष्मया पृथिव्या सह सञ्ज्ग्मानः सङ्गच्छमानः प्रजापतिरस्मिल्लोके रोहितो भुत्वा रेतो नि षिञ्चत्। निषेकमकरोत्। तामृश्यो भूत्वा रोहितं भुतामभ्यैदिति ब्राह्मणम्। ऐ. ब्रा. ३-३३। तदानीं स्वाध्यः सुध्यानाः सुकर्माणो वा देवा ब्रह्माजनयन्। उदपादयन्। किं तद्ब्रह्मेति तदाह। वास्तोष्पतिं यज्ञवास्तुस्वामिनं व्रतपां व्रतस्य कर्मणो रक्षः प्रभृतिभ्यः पालकं निरक्षन्। समुदपादयन्। यज्ञवास्तुस्वामित्वं दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७