मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् १०

संहिता

म॒क्षू क॒नाया॑ः स॒ख्यं नव॑ग्वा ऋ॒तं वद॑न्त ऋ॒तयु॑क्तिमग्मन् ।
द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥

पदपाठः

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नव॑ऽग्वाः । ऋ॒तम् । वद॑न्तः । ऋ॒तऽयु॑क्तिम् । अ॒ग्म॒न् ।
द्वि॒ऽबर्ह॑सः । ये । उप॑ । गो॒पम् । आ । अगुः॑ । अ॒द॒क्षि॒णासः॑ । अच्यु॑ता । दु॒धु॒क्ष॒न् ॥

सायणभाष्यम्

नवग्वा अङ्गिरसः। गवामयनाख्यं सत्रमनुतिष्ठामङ्गिरसां मध्ये ये नवसु मासेषु लब्धगावः सन्त उत्थितास्ते नवग्वाः। त ऋतं वदन्तो मक्षु शीघ्रं कनायाः कमनीयायाः स्तुतेर्नाभानेदिष्ठप्रेरितायाः सकाशादृतयुक्तिमग्मन्। उक्तयोगपरिसमाप्तिमग्मन्। प्राप्ताः। यद्वा। ऋतयुक्तिं यज्ञयोतोपेतमृतं शब्दं स्तुतिं वदन्तोऽङ्गिरसः कनायाः पृश्न्याः सख्यमग्मन्निति योजना। द्विबर्हसो द्वयोः स्थानयोर्द्यावापृथिव्योः परिवृढायेऽङ्गिरसो गोपं गोपयितारम् नाभानेदिष्थमिन्द्रम् वोपागुः उपगताः तेऽदक्षिणासो दक्शिणारहिताः। अदक्षिणानि सत्राणीत्याहुरिति हि वचनं ये यजमानास्त ऋत्विज इति। ते चाच्युतोदककान्यक्षीणानि फलानि वा दुधुक्षन्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७