मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् १४

संहिता

भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः ।
अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतरृ॒तस्य॒ होता॒ध्रुक् ॥

पदपाठः

भर्गः॑ । ह॒ । नाम॑ । उ॒त । यस्य॑ । दे॒वाः । स्वः॑ । न । ये । त्रि॒ऽस॒ध॒स्थे । नि॒ऽसे॒दुः ।
अ॒ग्निः । ह॒ । नाम॑ । उ॒त । जा॒तऽवे॑दाः । श्रु॒धि । नः॒ । हो॒तः॒ । ऋ॒तस्य॑ । होता॑ । अ॒ध्रुक् ॥

सायणभाष्यम्

उतापि च भर्गो ह नाम तत्त्तेजः किल प्रसिद्धं यस्य तेजस आग्नेयस्य सम्बन्धिनि त्रिषधस्ते बर्हिषि ये देवाः सन्ति ते सर्वे स्वर्ण स्वर्गे यथा तथैव निषेदुः निषीदन्ति। उतापि च तत्तेजोऽग्निर्ह नामाग्निः किल नाम। उतापि च जातवेदा जातप्रज्ञो जातानां वेदितैतदपि तस्य तेजसो नाम। अग्नेर्घर्ग इत्यग्निरिति जातवेदा इति च त्रीणि नामानीत्यर्थः। अथ प्रत्यक्षकृतः। हे होतर्होमनिष्पादकोक्तनामाग्ने ऋतस्य होता यज्ञस्य सम्बन्धिनां देवानामाह्वाताध्रुग्ध्रोहरहितस्त्वं नोऽस्माकमाह्वानं श्रुधि। शृणु॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८