मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् १९

संहिता

इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्व॑ः ।
द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥

पदपाठः

इ॒यम् । मे॒ । नाभिः॑ । इ॒ह । मे॒ । स॒धऽस्थ॑म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वः॑ ।
द्वि॒ऽजाः । अह॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । इ॒दम् । धे॒नुः । अ॒दु॒ह॒त् । जाय॑माना ॥

सायणभाष्यम्

इयं माध्यमिका वाग्मे नाभिः संनाहिनी। आदित्यस्य तस्यश्चभेदादस्यर्षेर्माध्यमिका वाग्बन्धिका भवति। तथा च ब्राह्मणम्। सा या वागसौ स आदित्य इति ब्राह्मणम्। इहास्मिन्मण्डले मे मम सदस्थं स्थानम्। इमे मे देवा द्योतमाना रश्मयो मे मम स्वभुताः। अयमहमस्मि सर्वः। सूर्यस्य स्वस्योक्तेन। प्रकारेणाभेदात्तद्द्वारा सर्वात्मकत्वम्। अह किञ्चेत्यर्थः। द्विजा विप्रा ऋतस्य प्रथमजाः। सत्यस्य प्रथमजाः सत्यभूतस्य ब्रह्मणः प्रथमोत्पन्नाः। धेनुः। पृश्निदेवता माध्यमिका वाग्जायामानेदं सर्वमदुहत्। दुदोह। उदपादयदित्यर्थः॥१९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९