अधा॑सु म॒न्द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् ।
ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥
अध॑ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भाऽवा॑ । अव॑ । स्य॒ति॒ । द्वि॒ऽव॒र्त॒निः । व॒ने॒षाट् ।
ऊ॒र्ध्वा । यत् । श्रेणिः॑ । न । शिशुः॑ । दन् । म॒क्षु । स्थि॒रम् । शे॒ऽवृ॒धम् । सू॒त॒ । मा॒ता ॥
अधाथासु चतसृषु दिक्षु मन्द्रो मोदमानोऽरतिर्गन्ता विभावा दीप्तिमान् द्विवर्तनिर्द्वयोर्लोकयोर्गन्ता वनेशाड्वने काष्ठानामभिभविताग्निरवस्यति। अवसन्नो भवति यागार्थम्। यच्च योऽग्निरूर्ध्वोन्मुखा श्रेणिर्न शिशुः शंसनीयः सेनेव मक्षु शीघ्रं दन् शत्रुन्दमयति तमिमं स्थिरं निश्चलं शेवृधं सुखस्य वर्धकं मातारणिः सूत। यज्ञे जनयामस॥२०॥