मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् २१

संहिता

अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे॑युः ।
श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥

पदपाठः

अध॑ । गावः॑ । उप॑ऽमातिम् । क॒नायाः॑ । अनु॑ । श्वा॒न्तस्य॑ । कस्य॑ । चि॒त् । परा॑ । ई॒युः॒ ।
श्रु॒धि । त्वम् । सु॒ऽद्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒ऽघ्नस्य॑ । व॒वृ॒धे॒ । सू॒नृता॑भिः ॥

सायणभाष्यम्

अध सम्प्रति कस्य चिच्छान्तस्य प्रवृद्धस्य श्रान्तस्य वा। आत्मनो निर्देशः। ईदृशस्य नाभानेदिष्ठस्य कनायाः कमनीयायाः स्तुतेर्गावो वाचः। यद्वा। वाचः स्तुतयः कनाया कमनीयायाः स्तुतेरुपमातिमुपमानभूतमिन्द्रमनु परेयुः। अनु परागच्छन्ति। हे सुद्रविणः सुधनाग्ने त्वं श्रुधि। शृणु। नोऽस्माकमिममिन्द्रं याट्। आयाट्। यज। त्वं चाश्वघ्नस्य। अश्वघ्नोऽश्वमेधयाजी मनुः। तस्य पुत्रस्य मम सूनृताभिः स्तुतिभिर्ववृधे। वर्धसे। पुरुषव्यत्ययः। अथवायं वर्धत इति परोक्षेण निर्देशः॥२१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०