मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् २२

संहिता

अध॒ त्वमि॑न्द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः ।
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥

पदपाठः

अध॑ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒ऽप॒ते॒ । वज्र॑ऽबाहुः ।
रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । अ॒ने॒हसः॑ । ते॒ । ह॒रि॒ऽवः॒ । अ॒भिष्टौ॑ ॥

सायणभाष्यम्

हे इन्द्र अधाधुना वज्रबाहुस्त्वमस्मान्महो महते राये धनाय विद्धि। जानीहि। हे इन्द्र मघोनो हविष्मतः सूरीन् स्तुतिप्रेरकान्नोऽस्मान्रक्ष च। हे हरिवो हरिभ्यां तद्वन्निन्द्र ते तवाभिष्टावभिगमनेऽनेहसोऽपापाः स्यामेति शेशः॥२२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०