मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् २३

संहिता

अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः ।
विप्र॒ः प्रेष्ठ॒ः स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥

पदपाठः

अध॑ । यत् । रा॒जा॒ना॒ । गोऽइ॑ष्टौ । सर॑त् । स॒र॒ण्युः । का॒रवे॑ । ज॒र॒ण्युः ।
विप्रः॑ । प्रेष्ठः॑ । सः । हि । ए॒षा॒म् । ब॒भूव॑ । परा॑ । च॒ । वक्ष॑त् । उ॒त । प॒र्ष॒त् । ए॒ना॒न् ॥

सायणभाष्यम्

हे राजाना राजमानौ मित्रावरुणौ अधाधुना सत्रसमाप्तौ यद्यस्माद्गविष्टौ गवामेशणायां सत्यां सरुण्युः सरणशीलो यमः सरत् गच्छति कारवे कर्माणि कुर्वतेङ्गिरसाम् गणाय। किमिच्छन्। जरण्युस्तस्मा अङ्गिरसां गणाय स्तुतिमिच्छन्। तस्यात्स विप्रो नाभानेदिष्ठ एषामङ्गिरसां प्रेष्ठः प्रियतमो बभूव। भवतु। हीति पुरणः। तेषां कर्तव्यं परा च वक्षत्। परावहतु। उतापि चैनानङ्गिरसः पर्शत् पारयत्वित्यात्मन एवाशास्ते॥२३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०