मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६१, ऋक् २४

संहिता

अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ॑न्त ईमहे॒ तदू॒ नु ।
स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥

पदपाठः

अध॑ । नु । अ॒स्य॒ । जेन्य॑स्य । पु॒ष्टौ । वृथा॑ । रेभ॑न्तः । ई॒म॒हे॒ । तत् । ऊं॒ इति॑ । नु ।
स॒र॒ण्युः । अ॒स्य॒ । सू॒नुः । अश्वः॑ । विप्रः॑ । च॒ । अ॒सि॒ । श्रव॑सः । च॒ । सा॒तौ ॥

सायणभाष्यम्

अनया वरुणं पृथक् स्तौति। अधाथ नु क्षिप्रमस्य जेन्यस्य जयशीलस्य स्तुत्याजेतव्यस्य वा तत्स्वभूतं गवादिधनं पुष्तौ पॊषे निमित्ते सति तस्य पुष्ट्यर्थं वा वृथानायासेन रेभन्तः स्तुवन्तो नु क्षिप्रमीमहे। याजामहे। सरण्युः शीघ्रसरणशीलोऽश्वोऽस्य वरुणस्य सूनुः पुत्रः। वरुणाद्ध्यश्व उत्पन्नः। अथ प्रत्यक्शकृतः। हे वरुन त्वं विप्रश्चासि। विप्रवत्पूज्यः शुद्धो वा भवसि। श्रवसश्चान्नस्य सातौ लाभेऽस्माकमन्नलाभाय प्रवृत्तश्च भवसि॥२४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०