मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् २

संहिता

य उ॒दाज॑न्पि॒तरो॑ गो॒मयं॒ वस्वृ॒तेनाभि॑न्दन्परिवत्स॒रे व॒लम् ।
दी॒र्घा॒यु॒त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

पदपाठः

ये । उ॒त्ऽआज॑न् । पि॒तरः॑ । गो॒ऽमय॑म् । वसु॑ । ऋ॒तेन॑ । अभि॑न्दन् । प॒रि॒व॒त्स॒रे । व॒लम् ।
दी॒र्घा॒यु॒ऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥

सायणभाष्यम्

ये अङ्गिरसः पितरोऽस्माकं पुर्वजत्वेन पितृभूता ये यूयं गोमयं गवात्मकं पणिभिरपहृतम् वसु धनमुदाजन् तैरधिष्ठितात्पर्वतादुदगमयन्। किञ्चर्तेन सत्यभुतेन यज्ञेन परिवत्सरे पर्यागते वत्सरे सम्पूर्णे। सत्त्रान्त इत्यर्थः। तत्र वलं वलनामानं गवामपहर्तारमसुरमभिन्दन् व्यनाशयन् तेभ्यो वो युश्मभ्यं दीर्घायुत्वं प्रभूतजीवनमस्तु। शेषं पूर्ववत्॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः