मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् ३

संहिता

य ऋ॒तेन॒ सूर्य॒मारो॑हयन्दि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि ।
सु॒प्र॒जा॒स्त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

पदपाठः

ये । ऋ॒तेन॑ । सूर्य॑म् । आ । अरो॑हयन् । दि॒वि । अप्र॑थयन् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ।
सु॒प्र॒जाः॒ऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥

सायणभाष्यम्

हे अङ्गिरसः ये भवन्त ऋतेन सत्यभुतेन यज्ञेन दिवि द्युलोके सूर्यं सुष्ठु सर्वस्य प्रेरकमादित्यमारोहयन् अस्थापयन् किञ्च मातरं सर्वेषां निर्मात्रीं पृथिवीं व्यप्रथयन् प्रसिद्धामकुर्वन् सत्त्त्रादिकर्मकरणेन तेभ्यो युष्मभ्यं सुप्रजास्त्वं सुपुत्रत्वमस्तु। नित्यमसिच् प्रजामेधयोरित्यसिच्समासान्तः। तस्माद्भावप्रत्ययः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः