मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् ५

संहिता

विरू॑पास॒ इदृष॑य॒स्त इद्ग॑म्भी॒रवे॑पसः ।
ते अङ्गि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥

पदपाठः

विऽरू॑पासः । इत् । ऋष॑यः । ते । इत् । ग॒म्भी॒रऽवे॑पसः ।
ते । अङ्गि॑रसः । सू॒नवः॑ । ते । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे॒ ॥

सायणभाष्यम्

परोक्षतयर्षिराह। ऋषयः कर्मणां द्रष्टार एत ऋषयो विरूपास इदन्योन्यं वर्णतो रूपतश्च नानारूपा भवन्ति। त इत्त एवामी अङ्गिरसो गम्भीरवेपसः। वेप इति कर्मनाम। बम्भीरकर्मणो भवन्ति। त इमेऽङ्गिरसः सूनवः पुत्राः खलु। तदेवाह। त इमेऽङ्गिरसोऽग्नेः परि जज्ञिरे। सर्वतो जाताः प्रादुर्भऊताः। येऽङ्गारा असंस्तेऽङ्गिरसोऽभवन्। ऐ. ब्रा. ३-३४। इति ब्राह्मणम्। अत्र निरुक्तं च द्रष्टव्यम्। नि. ३-१७॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः