मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६२, ऋक् ६

संहिता

ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू॑पासो दि॒वस्परि॑ ।
नव॑ग्वो॒ नु दश॑ग्वो॒ अङ्गि॑रस्तमो॒ सचा॑ दे॒वेषु॑ मंहते ॥

पदपाठः

ये । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे । विऽरू॑पासः । दि॒वः । परि॑ ।
नव॑ऽग्वः । नु । दश॑ऽग्वः । अङ्गि॑रःऽतमः । सचा॑ । दे॒वेषु॑ । मं॒ह॒ते॒ ॥

सायणभाष्यम्

विरूपासो विविधरूपा येऽङ्गिरसो दिवस्परि द्युलोकादग्नेः परि जज्ञिरे परितो जाताः। यद्वा। दिवस्परि। परिः पञ्चम्यर्थद्योतकः। स्वतेजसा दीप्यमानादग्नेर्जाताः। तेषां मध्ये नवग्वो दशग्वश्चाङ्गिरस्तमोऽङ्गिरसाम् वरिष्थः। सत्त्रमासीनानामङ्गिरसां मध्ये केचन नवसु मास्सु कर्म कृत्वोदतिष्थन् केचन दशसु मास्स्वित्येवमङ्गिरसामयनमुक्तम्। तेषामग्निर्नवग्वश्च दशग्वश्चोक्तः। तादृशो देवेषु सचा सहावस्थितः सोऽग्निर्महन्ते। मह्यम् धनं प्रयच्छति। मंहतिर्दानकर्मा॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः