मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् २

संहिता

विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः ।
ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ॥

पदपाठः

विश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ ।
ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥

सायणभाष्यम्

ये देवा इन्द्रादयः। हिरवधारणे। वो युश्माकमेव नामानि नमनीयानि विश्वा सर्वाणि शरीराणि नमस्यानि नमस्करार्हाणि भवन्ति वन्द्या वन्द्यानि स्तोतव्यानि च भवन्ति। ये यूयमदितेरदीनाद्द्युलोकादद्भ्यः। अन्तरिक्षनामैतत्। अन्तरिक्षात्। परिः पञ्चम्यर्थद्योतकः। पृथिव्याश्च जाताः प्रादुर्भूताः स्थ भवत ते यूयमिहास्मिन्यज्ञ आगत्य मे मदीयं हवमाह्वानं श्रुत। शृणुत॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः