मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् ८

संहिता

य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः ।
ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥

पदपाठः

ये । ईशि॑रे । भुव॑नस्य । प्रऽचे॑तसः । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । मन्त॑वः ।
ते । नः॒ । कृ॒तात् । अकृ॑तात् । एन॑सः । परि॑ । अ॒द्य । दे॒वा॒सः॒ । पि॒पृ॒त॒ । स्व॒स्तये॑ ॥

सायणभाष्यम्

प्रचेतसः प्रकृष्टज्ञाना मन्तवः सर्वस्य वेदितारो ये देवाः स्थातुः स्थावरस्य जगतो जङ्गमस्य विश्वस्य सर्वस्य भुवनस्य लोकस्येशिरे ईश्वरा भवन्ति। अथ प्रत्यक्षकृतः। हे देवासो देवाः य उक्तगुणास्ते यूयं नोऽस्मान्कृतात्कायिकात्पापात् अकृतात्करचरणादिभिरकृतादेनसः किन्तु मानसात्पापच्चाद्यास्मिन्चिने स्वस्तयेऽविनाशायायुषोऽभिवृद्धये पिपृत। पारयत पापरहितान्कुरुतेत्यर्थः।।८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः