मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् १२

संहिता

अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः ।
आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु ण॒ः शर्म॑ यच्छता स्व॒स्तये॑ ॥

पदपाठः

अप॑ । अमी॑वाम् । अप॑ । विश्वा॑म् । अना॑हुतिम् । अप॑ । अरा॑तिम् । दुः॒ऽवि॒दत्रा॑म् । अ॒घ॒ऽय॒तः ।
आ॒रे । दे॒वाः॒ । द्वेषः॑ । अ॒स्मत् । यु॒यो॒त॒न॒ । उ॒रु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । स्व॒स्तये॑ ॥

सायणभाष्यम्

हे देवाः अमीवां रोगादिकम् यद्वा रोगवद्भाधकं शत्रुमस्मत्तोदूरेऽप कुरुत। पृथक्कुरुत। तथा विश्वां सर्वामनाहुतिं देवानामनाह्वानबुद्धिं यद्वा देवानां महाशत्रुं पृथक्कुरुत। किञ्चारातिमदानं लोभबुद्धिं यद्वा देवेभ्यो हविषामदातारं शत्रुमप गमयत। अपि जघायतः पापमिच्छतः। शत्रोर्दुर्विदत्रां दुर्विज्ञानं दुष्तां बुद्धिं इत्थं च द्वेशो द्वेश्टॄन् सर्वाञ्छत्रूनस्मदस्मत्त आरे दूरे युयोतन। पृथक्कुरुत। एवं सति यूयं नोऽस्मभ्यमुरु विस्तीर्णम् शर्म सुखं स्वस्तये कल्याणाय प्रयच्छत॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः