मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् १३

संहिता

अरि॑ष्ट॒ः स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ ।
यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥

पदपाठः

अरि॑ष्टः । सः । मर्तः॑ । विश्वः॑ । ए॒ध॒ते॒ । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ ।
यम् । आ॒दि॒त्या॒सः॒ । नय॑थ । सु॒नी॒तिऽभिः॑ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । स्व॒स्तये॑ ॥

सायणभाष्यम्

हे विश्वे देवाः विश्वः सर्वोमर्तः स मनुष्योऽरिष्टः कैश्चिदप्यहिंसितः सन्नेधते पश्वादिभिर्वर्धते। तथा धर्मणस्परि धारकात्कर्मणॊऽन्नन्तरम् स मनुष्यः प्रजाभिः पुत्रादिभिः प्रजायते। प्रकर्षेणाविर्भूतो भवति। हे आदित्यास आदित्या देवाः यं मनुष्यं सुनीतिभिः सुनयनैर्विश्वानि सर्वाणि दुरिता दुरितानि पापानि तद्रूञ्छत्रून्वा स्वस्तये क्षेमायाति नयथ अतीत्य सन्मार्गं नयथ। स वर्धत इति समन्वयः॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः