मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् १४

संहिता

यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ ।
प्रा॒त॒र्यावा॑णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये॑ ॥

पदपाठः

यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । शूर॑ऽसाता । म॒रु॒तः॒ । हि॒ते । धने॑ ।
प्रा॒तः॒ऽयावा॑नम् । रथ॑म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि॑ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥

सायणभाष्यम्

हे देवासो देवाः वाजसातावन्नभजनेऽन्न लाभे व यं रथमवथ रक्षथ हे मरुतह् शुरसाता। सङ्ग्रामनामैतत् शूराः स्यन्ति खिद्यन्तेऽत्रेति शूराः सीयन्ते विनश्यन्ते यद्धृभिरत्रेति। तस्मिन्युद्धे यं रथं हिते निहिते धने धनमुद्दिश्य। निमित्तात्कर्मसंयोगे। पा. २-३-३६-६। इति सप्तमी। तदुद्दिश्य रक्षथ। सर्वेषां देवानां मुख्यत्वादिन्द्रमेवाभिलक्ष्य वदत्युत्तरार्धेन। हे इन्द्र सर्वेषां मुख्यप्रातयार्वानम् प्रातरेव युद्धं प्रति गन्तारं सानसिं सम्भजनीयमरिष्यन्तं कैश्चिदप्यहिंसितम्। यद्वा। इन्द्रसहायानां मरुतामभाधकम् । तं रथं स्वस्तयेऽस्माकं रक्षनाय वयमारुहेम। आरोहेम॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः