मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् ९

संहिता

सर॑स्वती स॒रयु॒ः सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥

पदपाठः

सर॑स्वती । स॒रयुः॑ । सिन्धुः॑ । ऊ॒र्मिऽभिः॑ । म॒हः । म॒हीः । अव॑सा । आ । य॒न्तु॒ । वक्ष॑णीः ।
दे॒वीः । आपः॑ । मा॒तरः॑ । सू॒द॒यि॒त्न्वः॑ । घृ॒तऽव॑त् । पयः॑ । मधु॑ऽमत् । नः॒ । अ॒र्च॒त॒ ॥

सायणभाष्यम्

महो महतोऽपि महीर्महत्योऽथन्तं महत्य ऊर्मिभिः सहिताः सरस्वती सरयुः सिन्धुरेतदाद्या एकविंशतिसङ्ख्याका वक्शणीरिमा नद्योऽवसा रक्षणेन हेतुना यन्तु। अस्मदीयं यज्ञं प्रत्यागच्छन्तु। ततो देवीर्देवनशीला मातरो मातृभूताः सूदयित्न्वः प्रेरयित्र्यस्तासामापो घृतवद्घृतयुक्तं मधुमद्मधुसहितमात्मीयं पयो नोऽस्मभ्यमर्चत। प्रयच्छत॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः