मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् १५

संहिता

वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑ति॒ः पनी॑यसी ।
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ॥

पदपाठः

वि । सा । होत्रा॑ । विश्व॑म् । अ॒श्नो॒ति॒ । वार्य॑म् । बृह॒स्पतिः॑ । अ॒रम॑तिः । पनी॑यसी ।
ग्रावा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । अवी॑वशन्त । म॒तिऽभिः॑ । म॒नी॒षिणः॑ ॥

सायणभाष्यम्

होत्रा। वाङ्नामैतत् आहूयन्तेऽनया देवा इति। सा वाग्वार्यं वरणीयं विश्वं सर्वं पश्वादिसहितं धनं व्यश्नोति। विविधं व्याप्नुते। कीदृशी। बृहस्पतिर्बृहतां महतां पालयित्री अरमतिः पर्याप्तस्तुतिः यद्वा कुत्राप्यनुपरता पनीयस्य अत्यन्तं देवानां स्तोत्रकारिणी। यत्र यस्यां होत्रायाम् मधुषुत् सोममभिषुण्वन्बृहद्महान्ग्रावोच्यते अभिधीयते। स्तूयत इत्यर्थः। तं स्तुतिमन्तं यज्ञं मनीशिणो देवा मतिभिः स्तुतिभिः सहावीवशन्त। कामयन्ते। वष्टेर्ण्यन्तस्य लुङि रूपं यद्वा। मनीशिणः स्तोतारः स्तुतिभिर्देवान्यज्ञं कामयमानान्कुर्वन्ति॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः