मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् १

संहिता

अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
आ॒दि॒त्या विष्णु॑र्म॒रुत॒ः स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

अ॒ग्निः । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । वा॒युः । पू॒षा । सर॑स्वती । स॒ऽजोष॑सः ।
आ॒दि॒त्याः । विष्णुः॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् । सोमः॑ । रु॒द्रः । अदि॑तिः । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

अग्न्यादय आदित्यादयो बृहद्बृहती स्वर्द्यौश्च सोमादय एते देवाः सजोषसः संहत्य॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः