मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् १५

संहिता

दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । व॒व॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽत॒स्थुः ।
ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

वसिष्ठो वसिष्ठकुलजोऽयमृषिरमृतन्मरणरहितान्देवान्ववन्दे। एवमस्तावीत्। ये देवा विश्वा विश्वानि भुवनानि लोकानभि प्रतस्थुः स्वतेजसाभिभवन्ति। अभितः प्रतिष्ठन्तीति वा। प्रपूर्वात्तिष्ठतेर्लिटि रूपम्। समासस्वरः। ते देवा अद्यास्मिन्दिने नोऽस्मभ्यमुरुगायं प्रभूतयशस्कमन्नं रासन्ताम् । प्रयच्छन्तु। हे देवाः यूयम् स्वस्तिभि कल्याणीभिरूतिभिर्नोऽस्मान्सदा सर्वदा पात। रक्षत॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११