मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् ४

संहिता

अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू॑ म॒रुत॒ः स्व॑र्बृ॒हत् ।
दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्त्स॑वि॒तारं॑ सु॒दंस॑सम् ॥

पदपाठः

अदि॑तिः । द्यावा॑पृथि॒वी इति॑ । ऋ॒तम् । म॒हत् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् ।
दे॒वान् । आ॒दि॒त्यान् । अव॑से । ह॒वा॒म॒हे॒ । वसू॑न् । रु॒द्रान् । स॒वि॒तार॑म् । सु॒ऽदंस॑सम् ॥

सायणभाष्यम्

अदितिर्द्यावापृथिवी द्यावापृथिव्यौ महद्महानृतं सय्तभुतोऽग्निरिन्द्राविष्णू मरुतश्च बृहत्परिवृढः स्वरादित्यः एते देवाः सर्वत्र स्वमहिम्ना वर्तन्ते। एतान्देवानादित्यादीन्सुदंससं सुकर्माणम् सवितारमेतन्नामानं चावसे रक्षणाय हवामहे। वयमाह्वयामहे॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२