मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् ७

संहिता

अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे ।
यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता न॒ः शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥

पदपाठः

अ॒ग्नीषोमा॑ । वृष॑णा । वाज॑ऽसातये । पु॒रु॒ऽप्र॒श॒स्ता । वृष॑णौ । उप॑ । ब्रु॒वे॒ ।
यौ । ई॒जि॒रे । वृष॑णः । दे॒व॒ऽय॒ज्यया॑ । ता । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒तः॒ ॥

सायणभाष्यम्

वृषणा वर्षणशीलौ पुरुप्रशस्ता बहुभीः प्रशस्तावग्नीषोमौ वाजसातयेऽन्नालाभायोप ब्रुवे। अहमुपस्त्ॐइ। पुनर्वृषणावित्यादरार्थम्। यौ देवौ वृषन ऋत्विजो देवयज्यया। देवा इज्यन्तेऽत्रेति देवयज्या यज्ञः। छन्दसि निष्टर्क्येति निपातितः। तेनेजिरे यजन्ते हविर्भिः पूजयन्ति ता तौ प्रसिद्धौ नोऽस्मभ्यं त्रिवरुथं त्रिष्कंभं शर्म गृहं वि यंसतः। विशेशेण प्रयच्छताम्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३