मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् ११

संहिता

स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः ।
अहि॑र्बु॒ध्न्य॑ः शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥

पदपाठः

स॒मु॒द्रः । सिन्धुः॑ । रजः॑ । अ॒न्तरि॑क्षम् । अ॒जः । एक॑ऽपात् । त॒न॒यि॒त्नुः । अ॒र्ण॒वः ।
अहिः॑ । बु॒ध्न्यः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । विश्वे॑ । दे॒वासः॑ । उ॒त । सू॒रयः॑ । मम॑ ॥

सायणभाष्यम्

समुद्रः समुन्दनशीलः स्यन्दमानोदहः सिन्धुरेतन्नामकोऽन्तरिक्षं द्यावापृथिव्योरन्तरा मध्ये क्षितमुषितं रजो मध्यमलोकमज एकपात् अजायमान एक एव पद्यते। एतत्संज्ञको देवोऽर्णव उदकवांस्तनयित्नुः स्तनयित्नुर्मेघो बुध्न्योऽन्तरिक्षे भवोऽहिरेतत्संज्ञकः एते देवा मे मम वचांसि वक्तव्यानि स्तोत्रानि शृणवत्। प्रत्येकं शृणोतु उतापि च सूरयः प्रज्ञा विश्वे देवासो देवा मम स्तोत्राणि शृण्वन्तु॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४