मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६७, ऋक् ४

संहिता

अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ ।
बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥

पदपाठः

अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनृ॑तस्य । सेतौ॑ ।
बृह॒स्पतिः॑ । तम॑सि । ज्योतिः॑ । इ॒च्छन् । उत् । उ॒स्राः । आ । अ॒कः॒ । वि । हि । ति॒स्रः । आव॒रित्यावः॑ ॥

सायणभाष्यम्

पनयो गा आहृत्य त्रिषु स्थानेषु निदधुः। अवोऽवस्तात्स्थिता अनृतस्य तमसः सेतौ स्थाने गुहा गुहायां तिष्थन्तीर्गा द्वाभ्यां स्थानाभ्यामुदाजत्। ततः परः परस्तादवस्थिता गा एकयैकेन स्थानेनोदगमयत्। तदेवाह। ब्रुहस्पतिस्तस्मिंस्तमसि ज्योतिः कर्तुमिच्छंस्तत्र स्थिता उस्रा गा उदकः। उदकार्षीत्। प्रादुर्भूता अकार्षीत्। इत्त्थमयं तिस्रोऽसुराणां द्वारो व्यावः। विवृतवान्खलु। वृणोतेर्लुङि मन्त्रे घसेति च्लेर्लुक्। बहुलं छन्दसीत्यडागमः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५