अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत् ।
बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥
अप॑ । ज्योति॑षा । तमः॑ । अ॒न्तरि॑क्षात् । उ॒द्नः । शीपा॑लम्ऽइव । वातः॑ । आ॒ज॒त् ।
बृह॒स्पतिः॑ । अ॒नु॒ऽमृश्य॑ । व॒लस्य॑ । अ॒भ्रम्ऽइ॑व । वातः॑ । आ । च॒क्रे॒ । आ । गाः ॥
स बृहस्पतिर्ज्योतिषा तमसावृते पर्वतविवरे कृतेन सूर्येणान्तरिक्षात्तत्तमोऽपाजत्। अपागमयत्। तत्र दृष्टान्तः। उद्नः शीपालमिव। यथोदकाद्वातो वायुः शीपालं शैवालमपगमयति तद्वत्। ततः सोऽयमनुमृश्याऽत्र गावस्तिष्थन्तीति विचार्य निश्चित्य वलस्य स्वभुतस्य पर्वतस्यान्तर्गता गा आ चक्रे। आ समन्तादकार्षीत्। कथमिव। अभ्रमिव यथा वायुरन्तरिक्षस्थितमभ्रं मेघमाकिरति तद्वत्॥५॥