मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् ९

संहिता

सोषाम॑विन्द॒त्स स्व१॒॑ः सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि ।
बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥

पदपाठः

सः । उ॒षाम् । अ॒वि॒न्द॒त् । सः । स्व१॒॑रिति॑ स्वः॑ । सः । अ॒ग्निम् । सः । अ॒र्केण॑ । वि । ब॒बा॒धे॒ । तमां॑सि ।
बृह॒स्पतिः॑ । गोऽव॑पुषः । व॒लस्य॑ । निः । म॒ज्जान॑म् । न । पर्व॑णः । ज॒भा॒र॒ ॥

सायणभाष्यम्

स बृहस्पतिस्तत्र पर्वतविवरे गवां दर्शनायोषमुशसमविन्दत्। आलभत। स एव स्वरादित्यं सोऽग्निं लब्ध्वार्केणार्चनीयेन तेजसा तमांसि वि बबाधे। अत्यर्थं बाधितवान्। ततः स गोवपुशो गोरूपशरीरस्य पशुभिः परिवृतस्य वलस्य पर्वणः पर्वतात्ता गा निर्जभार। बलेन निर्जहार बलादाहरने द्रुष्टान्तः। मज्जानं न पर्वणः अस्थ्नो मज्जानं कथतिक्लेशेन निर्हरन्ति तद्वत्॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८