मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् ११

संहिता

अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् ।
रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥

पदपाठः

अ॒भि । श्या॒वम् । न । कृश॑नेभिः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तरः॑ । द्याम् । अ॒पिं॒श॒न् ।
रात्र्या॑म् । तमः॑ । अद॑धुः । ज्योतिः॑ । अह॑न् । बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः ॥

सायणभाष्यम्

पितरः पालयितारो देवा द्यां द्युलोकं नक्षत्रेभिराश्विन्यादिभिरभ्यपिंशन्। अभितोऽदीपयन्। पिश अवयवे। अयं दीपनायां वर्तते। तत्र दृष्तान्तः। श्यावं न यथा श्याववर्णमश्वं कृशनेभिः सौवर्णैराभरणैरलङ्कुर्वन्ति तद्वत्। तथा रात्र्यां तमो निहितवन्तः। किञ्चाहन्नह्नि ज्योतिरादित्याख्यमदधुः। अदधुरित्युत्तरवाक्येन सम्बन्धः करणीयः। अन्यथा स्वरो न घटेत। अत्र तु वाक्यभेदादनिघातः। यदा बृहस्पतिरद्रिं वलेनाधिष्थितं शिलोच्चयं भिनत् अभिनत् विभिद्य च तत्र स्थितान्गाः पशून्विदत् अविदत् आलभत। विदेर्लुङि लृदित्त्वादङ्। तदा देवा एवमकार्षुरित्यर्थः॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८