मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् ६

संहिता

सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।
शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्या॑ः ॥

पदपाठः

सम् । अ॒ज्र्या॑ । प॒र्व॒त्या॑ । वसू॑नि । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । जि॒गे॒थ॒ ।
शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । जना॑नाम् । त्वम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽयून् । अ॒भि । स्याः॒ ॥

सायणभाष्यम्

हे अग्ने अज्र्या। अजन्ति गच्छन्तीत्यज्रयो जनाः। तेभ्यो हितानि पर्वत्या पर्वतभवानि वसूनि गवादिलक्षणानि सं जिगेथ। शत्रुभ्यः सञ्जितवानसि। तथार्या बलवद्भिः कृतान्दासा दासैरसुरैः कृतान्वृत्राण्युपद्रवान्सं जिगेथ। तान्हतवानसीत्यर्थः। जि जये। लिटि रूपम् । शुर इव धृष्णुर्जनानां च्यवनस्त्वं पृतनायून्सङ्ग्रामकामानभि ष्याः। अभिभव। पृतनायूनित्यत्र लोपाभावश्चान्दसः। अश्वाघस्यादित्यात्वं विधीयमानमस्मादपि व्यत्ययेन भवति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९