मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् १०

संहिता

पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।
जु॒षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ॥

पदपाठः

पि॒ताऽइ॑व । पु॒त्रम् । अ॒बि॒भः॒ । उ॒पऽस्थे॑ । त्वाम् । अ॒ग्ने॒ । व॒ध्रि॒ऽअ॒श्वः । स॒प॒र्यन् ।
जु॒षा॒णः । अ॒स्य॒ । स॒म्ऽइध॑म् । य॒वि॒ष्ठ॒ । उ॒त । पूर्वा॑न् । अ॒व॒नोः॒ । व्राध॑तः । चि॒त् ॥

सायणभाष्यम्

हे अग्ने त्वामुपस्थे पृथिव्या उपस्थान उत्तरवेद्यां सर्पयन् परिचर्याकर्मा परिचरन्वध्र्यश्वो मम पिताबिभः। धृतवान्। हविर्घिः पोषितवान्वा। कथमिव। पितेव यथा पिता समीपे पुत्रं स्थापयति पोषयति वा। डुभृञ् धारनपोषणयोः। लङि तिपि गुणे कृते हल्ङ्यादिना तिपो लोपः। हे यविष्ठ यवतमाग्ने उतापि चास्य वध्र्यश्वस्य पितुर्वा मम वा समिधं जुषाणः सेवमानः सन् पूर्वान्प्रत्नान्वाधतश्चिद्बाधकानपि शत्रूनवनोः। अवधीः। वनतिर्हिंसायां भौवादिकः। व्यत्ययेनोप्रत्ययः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०