मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६९, ऋक् १२

संहिता

अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्य॑ः ।
स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥

पदपाठः

अ॒यम् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वृ॒त्र॒ऽहा । स॒न॒कात् । प्रऽइ॑द्धः । नम॑सा । उ॒प॒ऽवा॒क्यः॑ ।
सः । नः॒ । अजा॑मीन् । उ॒त । वा॒ । विऽजा॑मीन् । अ॒भि । ति॒ष्ठ॒ । शर्ध॑तः । वा॒ध्रि॒ऽअ॒श्व॒ ॥

सायणभाष्यम्

वृत्रहा शत्रूणाम् हन्तायमग्निः सनकाच्चिरादारभ्य वध्र्यश्वस्य हविषा प्रेद्धः प्रकर्षेन दीपितो भवति। तथा तस्य नमसा नमस्कारेण सहोपवाक्य उपस्तोतव्यो भवति। हे वाध्र्यश्व वध्र्यश्वकुले मथनेन समुत्पन्नाग्ने स त्वं नोऽस्माकमजामीनज्ञातीञ्शत्रून् उत वापि वा शर्धतो हिंसतो विजामीन्विधाञ्जातीनप्यभितिष्थ। अभिबव॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०