मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७०, ऋक् ७

संहिता

ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ ।
पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ॥

पदपाठः

ऊ॒र्ध्वः । ग्रावा॑ । बृ॒हत् । अ॒ग्निः । सम्ऽइ॑द्धः । प्रि॒या । धामा॑नि । अदि॑तेः । उ॒पऽस्थे॑ ।
पु॒रःऽहि॑तौ । ऋ॒त्वि॒जा॒ । य॒ज्ञे । अ॒स्मिन् । वि॒दुःऽत॑रा । द्रवि॑णम् । आ । य॒जे॒था॒म् ॥

सायणभाष्यम्

ग्रावा सोमाभिषवाय यदोर्ध्व उन्नतो भवति यदा च बृहन्महानग्निः समिद्धो हविर्भिः सम्यग्दीप्तो भवति। तथा प्रियाणि देवानां सोमादिहविष्प्रदानेन प्रीणयितॄणि धामानि हविषां धारकाणि यज्ञपात्राण्यदितेः पृथिव्या उपस्थे यज्ञसदने यदासादितानि भवन्ति तदानीं हे ऋत्विजौ देव्यौ पुरोहितौ होतारौ पुरतो निहितौ विदुष्टरा। छान्दसं सम्प्रसारनम्। विद्वत्तमौ युवामस्मिन्यज्ञे द्रविणं धनमा यजेथाम्। यजिर्दाअनार्थः। अस्मभ्यमाभिमुख्येन प्रयचृतम्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२