मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७१, ऋक् ९

संहिता

इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।
त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥

पदपाठः

इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर॑न्ति । न । ब्रा॒ह्म॒णासः॑ । न । सु॒तेऽक॑रासः ।
ते । ए॒ते । वाच॑म् । अ॒भि॒ऽपद्य॑ । पा॒पया॑ । सि॒रीः । तन्त्र॑म् । त॒न्व॒ते॒ । अप्र॑ऽजज्ञयः ॥

सायणभाष्यम्

अनया वेदार्थानभिज्ञा निन्द्यन्ते। इमे येऽविद्वांसोऽर्वागर्वाचीनमधोभाविन्यस्मिन्लोके ब्राह्मणैः सह न चरन्ति ये परह् परस्ताद्देवैः सह न चरन्ति ते ब्राह्मणासो ब्राह्मणा वेदार्थतत्परा न भवन्ति। तथा सुतेकरासः सोमम् सुतमभिषुतं कुर्वन्तीति सुतेकरा ऋत्विजः। तेपि न भवन्ति। अप्रजज्ञयः। जानातेरादृगमहन इति किरत्ययः। अविद्वांसस्त एते मनुष्या वाचम् लोइकिकीमभिपद्यप्राप्य तया पापाय पापकारिण्या वाचा युक्तास्ते सिरीः। छन्दसीवनिपावितीप्रत्ययः सुपां सुलुगिति जसः सुः। सीरिणो भुत्वा तन्त्रम् कृषिलक्शनं तन्वते। विस्तारयन्ति। कुर्वन्तीत्यर्थः। सर्वथा वेदार्थो ज्ञेय इत्यभिप्रायः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४