मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७४, ऋक् ३

संहिता

इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् ।
धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य१॒॑मसा॑मि ॥

पदपाठः

इ॒यम् । ए॒षा॒म् । अ॒मृता॑नाम् । गीः । स॒र्वऽता॑ता । ये । कृ॒पण॑न्त । रत्न॑म् ।
धिय॑म् । च॒ । य॒ज्ञम् । च॒ । साध॑न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य॑म् । असा॑मि ॥

सायणभाष्यम्

इयमेषाममृतानां यष्टव्यानां देवाना गीः स्तुतिः क्रियत इति शेषः। ये देवाः सर्वताता सर्वतातौ यज्ञे कृपणन्त प्रयच्छन्ति याच्यन्ते वा रत्नं रमणीयं धनम् । धियं चास्मदीयां स्तुतिं च यज्ञं साधन्तः साधयन्तस्तेनोऽस्मभ्यं वसव्यं वसुसमूहमसाम्यनल्पमसाधारणं वा धांतु। प्रयच्छन्तु॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः