मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् ४

संहिता

अ॒भि त्वा॑ सिन्धो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ ।
राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्रं॑ प्र॒वता॒मिन॑क्षसि ॥

पदपाठः

अ॒भि । त्वा॒ । सिन्धो॒ इति॑ । शिशु॑म् । इत् । न । मा॒तरः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ।
राजा॑ऽइव । युध्वा॑ । न॒य॒सि॒ । त्वम् । इत् । सिचौ॑ । यत् । आ॒सा॒म् । अग्र॑म् । प्र॒ऽवता॑म् । इन॑क्षसि ॥

सायणभाष्यम्

हे सिन्धो त्वा त्वाम् शिशुमिन्न मातरः पुत्रमिव वाश्राः शब्दयन्त्य इतरा नद्योऽभ्यर्षन्ति। अभिगच्छन्ति। पयसेव धेनवः पयसा युक्ता नवप्रसूतिका गाव इव। किञ्च युध्वा युद्धकृद्राजेव त्वमित्त्वमेव सिचौ सिच्यमानौ तटौ नयस्युदकं पूरं यद्यदासां प्रवतां त्वया सह गच्छन्तीनामग्रमग्र इनक्षसि व्याप्नोषि सर्वासां पुरतो गच्छसि॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः