मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७५, ऋक् ९

संहिता

सु॒खं रथं॑ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ ।
म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ॥

पदपाठः

सु॒खम् । रथ॑म् । यु॒यु॒जे॒ । सिन्धुः॑ । अ॒श्विन॑म् । तेन॑ । वाज॑म् । स॒नि॒ष॒त् । अ॒स्मिन् । आ॒जौ ।
म॒हान् । हि । अ॒स्य॒ । म॒हि॒मा । प॒न॒स्यते॑ । अद॑ब्धस्य । स्वऽय॑शसः । वि॒ऽर॒प्शिनः॑ ॥

सायणभाष्यम्

सिन्धुर्देवता सुखं सुखकरं शोभनद्वारं वाश्विनमश्ववन्तं रथं युयुजे। युनक्ति। तेन रथेन वाजमन्नं सनिषत्। प्रयच्छतु। अस्मिन्नाजौ सङ्ग्रामे यज्ञे वास्य सिन्धुरथस्य महिमा महाह्नि पनस्यते। स्तूयते। कीदृशस्यास्य। अदब्धस्यान्यैरहिंस्यस्य स्वयशसः स्वायत्तकीर्तेर्विरप्शिनः महन्नामैतत्। महतः।७॥ ९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः