मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७६, ऋक् २

संहिता

तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रि॑ः सो॒तरि॑ ।
वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥

पदपाठः

तत् । ऊं॒ इति॑ । श्रेष्ठ॑म् । सव॑नम् । सु॒नो॒त॒न॒ । अत्यः॑ । न । हस्त॑ऽयतः । अद्रिः॑ । सो॒तरि॑ ।
वि॒दत् । हि । अ॒र्यः । अ॒भिऽभू॑ति । पौंस्य॑म् । म॒हः । रा॒ये । चि॒त् । त॒रु॒ते॒ । यत् । अर्व॑तः ॥

सायणभाष्यम्

हे ग्रावाणः यूयम् तदु तमेव श्रेष्ठं प्रशस्यं सवनं सोमं सुनोतन। अभिषुणुत। अथैकवदाह। अद्रिरभिषवग्रावा हस्तयतो हस्तभ्यां गृहीतः सन्नत्यो न धृतोऽश्व इव भवति सोतर्यभिषवकर्तर्यध्वर्यौ। स यथा हस्ताभ्यां दृढगृहीतोऽपि बलवान् तद्वत्। अर्यो ग्राव्णामभिषवाय प्रेरको यजमानोऽभिभूति शत्रूणामभिभावुकं पौंस्यं बलं विदद्धि। लभते खलु देवेभ्यः। यद्वा। अभिषवायाध्वर्य्वादेः प्रेरितो ग्रावाभिभुतिपौंस्यं विदद्यजमानार्थम् । किञ्च महे महते राये चिद्धनायापि यद्यो ग्रावार्वतोऽश्वांस्तरुते तनुते प्रयच्छति॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः