मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७६, ऋक् ४

संहिता

अप॑ हत र॒क्षसो॑ भङ्गु॒राव॑तः स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् ।
आ नो॑ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं॑ भरत॒ श्लोक॑मद्रयः ॥

पदपाठः

अप॑ । ह॒त॒ । र॒क्षसः॑ । भ॒ङ्गु॒रऽव॑तः । स्क॒भा॒यत॑ । निःऽऋ॑तिम् । सेध॑त । अम॑तिम् ।
आ । नः॒ । र॒यिम् । सर्व॑ऽवीरम् । सु॒नो॒त॒न॒ । दे॒व॒ऽअ॒व्य॑म् । भ॒र॒त॒ । श्लोक॑म् । अ॒द्र॒यः॒ ॥

सायणभाष्यम्

हे आद्रयह् यूयमप हत विनाशयत रक्षसो राक्षसान्। कीदृशान्। भङ्गुरावतो भञ्जकेन कर्मणा तद्वतः। तथा स्कभायत दूरे परिहरत निरृतिं पापदेवताम् । यथामुं यज्ञम् नागच्छति तथा। किञ्च सेधत निषेधतामतिं हिंसामतिं रक्षः प्रभृतिम् । किञ्च नोऽस्माकं सर्ववीरं बहुपुत्राद्युपेतं रयिं धनमासुनोतन। अभिषवेन पुत्रधनादीनां लाभादेवमुक्तम्। किञ्च देवाव्यं देवप्रीणनं श्लोकं भरत। सम्पादयत॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः