मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७६, ऋक् ५

संहिता

दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः ।
वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥

पदपाठः

दि॒वः । चि॒त् । आ । वः॒ । अम॑वत्ऽतरेभ्यः । वि॒ऽभ्वना॑ । चि॒त् । आ॒श्व॑पःऽतरेभ्यः ।
वा॒योः । चि॒त् । आ । सोम॑रभःऽतरेभ्यः । अ॒ग्नेः । चि॒त् । अ॒र्च॒ । पि॒तु॒कृत्ऽत॑रेभ्यः ॥

सायणभाष्यम्

दिवश्चिदादित्यादप्यमवत्तरेभ्योऽथन्तं बलवद्भ्यो वो युष्मभ्यमार्च। अस्तौ दध्वर्युः। यद्वा। हे अध्वर्व्यादयः वो यूयमुच्यमानलक्षणेभ्यो ग्रावभ्य आ सर्वतोऽर्च। अर्चतेत्येवं प्रतिवाक्यं योज्यम्। विभ्वना चित्। विभ्वा सुधन्वनः पुत्रः। तेनाप्याश्वपस्तरेभ्यः। शीघ्रकर्मभ्य इत्यर्थः। विभ्वादीनां त्रयाणां चमसादिशीघ्र कर्म प्रसिद्धम् । वायोश्चिद्वायोरपि सोमरभस्तरेभ्य। सोमाभिषवार्थेनात्यन्तेन वेगेन युक्तेभ्यः। वायोरपि ग्रावाणो वेगवन्तो भवन्ति सोमाभिषवार्थम्। अग्नेश्चिदग्नेरपि पितुकृत्तरेभ्योऽत्यन्तमन्नसाधकेभ्यः ईदृशेभ्यो ग्रावभ्यः प्रीणनाय यूयमर्चतेति॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः